नैमिषारण्ये संस्कृतसप्ताहे वादविवादेन दीप्तिमान् बटुकानां प्रतिभा
सीतापुरम्, 27 अगस्तमासः (हि.स.)। । संस्कृतभारती, सीतापुरस्य तत्त्वावधानेन नैमिषक्षेत्रस्थिते आत्मानन्दसंस्कृतशिक्षणसंस्थाने आयोजितस्य संस्कृतसप्ताहस्य अन्तर्गतं चतुर्थदिने रोचकः वादविवादप्रतियोगितायाः आयोजनम् अभवत्। प्रतियोगितायां संस्थानस्य बटुकाः उत्साहेन सहभागितां कृत्वा संस्कृते स्वविचारान् तर्कपूर्णतया प्रस्तुतवन्तः।
प्रतियोगितायाः मार्गदर्शनं संस्थानस्य छात्रः आलोकः कृतवान्। तेन बटुकानां संस्कृतभाषायां स्पष्टतया, शुद्धोच्चारणेन प्रभावपूर्णतया च विचारप्रस्तुत्यै मार्गदर्शनं प्रदत्तम्। वादविवादस्य माध्यमेन छात्राणां आत्मविश्वासः, तर्कशक्तिः तथा संस्कृतभाषायाः सम्भाषणकौशलं च विकसितम्।
संस्कृतभारत्याः कार्यकर्त्री अंशु गुप्ता अवदत् यत् संस्कृतसप्ताहस्य अन्तर्गतं प्रतिदिनं विविधाः गतिविधयः आयोज्यन्ते, येन बटुकानां संस्कृतभाषायां स्वाभाविकः अनुरागः जायते। “मम स्थाने संस्कृतम्” इति ध्येयवाक्यं स्मारयन्ती सा अवदत् यत् संस्कृतं केवलं पाठ्यपुस्तकस्य भाषा न भवेत्, अपितु जनसामान्यस्य व्यवहारभाषा भवेत् इति संस्कृतभारत्याः प्रयासः अस्ति।
संस्थायाः संस्थापकः आचार्यः सर्वेशशुक्लः अपि बटुकान् प्रोत्साहितवान्। सः अवदत् यत् वादविवादादिविविधाः गतिविधयः छात्रेषु तर्कशक्तिं, आत्मविश्वासं संस्कृतभाषायां च रुचिं वर्धयन्ति।
कार्यक्रमे बटुकानां उत्साहपूर्णसहभागितया सम्पूर्णं वातावरणं संस्कृतमयम् अभवत्। संस्कृतसप्ताहस्य अन्तर्गतं आगामीदिवसेष्वपि विविधाः भाषिकाः ज्ञानवर्धकाः च कार्यक्रमाः आयोजयिष्यन्ते।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA